सामग्री पर जाएँ
सर्वकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 144, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 144

१२८ नैषधचरितम् । [ तृतीयः
तृतीयः सर्गः ।
आकुञ्चिताभ्यामथ पक्षतिभ्यां नभोविभागात्तरसाऽवतीर्य ।
निवेशदेशाततधूतपक्षः पपात भूमावुपभैमि हंसः ॥ १ ॥
आकुञ्चिताभ्यामिति । अथ = मण्डलीकरणानन्तरं, हंसः । आकुञ्चिताभ्यां =
आवर्जिताभ्यां, पक्षतिभ्यां = पक्षमूलाभ्यां, नभोविभागात् = आकाशदेशात्, तरसा =
वेगेनावतीर्य । [ निवेशदेशाततधूतपक्षः ] निवेशदेशे उपनिवेशस्थाने, आततौ
विस्तारिता धूतौ कम्पितौ च पक्षौ येन सः, तथा सन् उपभैमि = भैम्याः समीपे ।
सामीप्येऽव्ययीभावः । नपुंसकं ह्रस्वत्वं च । भूमौ पपात । स्वभावोक्तिरलङ्कारः ॥१॥
( दमयन्ती के मुख-चन्द्र के ऊपर मण्डले बनाने के ) अनन्तर हंस — अपने
सिकुड़े हुए पंखों से, आकाश में से झपट कर, उतरा; और उतरने के स्थान के
ऊपर ( पहले ) पंख फैलाकर, फिर उसे फड़फड़ाकर, दमयन्ती के पास जमीन
पर जा गिरा ॥ १ ॥
आकस्मिकः पक्षपुटाहतायाः क्षितेस्तदा यः स्वन उच्चचार ।
द्रागन्यविन्यस्तदृशः स तस्याः सम्भ्रान्तमन्तःकरणञ्चकार ॥ २ ॥
आकस्मिक इति । तदा = पतनसमये, पक्षपुटाहतायाः क्षितेः = भूतलात् ।
अकस्माद्भवः आकस्मिकः = अदृष्टहेतुकः, निर्हेतुक इत्यर्थः । यः स्वनः = ध्वनिरुच्च-
चार = उत्थितः, स = स्वनः, अन्यविन्यस्तदृशः = विषयान्तरनिविष्टदृष्टेस्तस्याः =
भैम्याः, अन्तःकरणं द्राक् = झटिति, सम्भ्रान्तं = ससम्भ्रमं चकार । अकाण्डे
सम्भावितशब्दश्रवणाच्चमत्कृतचित्ताभूदित्यर्थः । स्वभावोक्तिः ॥२॥
हंस के गिरते समय, उसके दोनों पंखों के अगले हिस्से से भूतल पर टकराने
के कारण, अचानक जो शब्द हुआ, उस ( शब्द ) ने दमयन्ती — जिसकी दृष्टि
अन्यत्र लगी हुई थी उस-के अन्तःकरण में एकवारगी हड़बड़ी पैदा कर दी ॥ २ ॥
नेत्राणि वैदर्भसुतासखीनां विमुक्त-तत्तद्विषयग्रहाणि ।
प्रापुस्तमेकं निरूपाख्यरूपं ब्रह्मेव चेतांसि यतव्रतानाम् ॥ ३ ॥
नेत्राणीति । [ वैदर्भ-सुता-सखीनां ] विदर्भाणां राजा वैदर्भो भीमः, तस्य
सुतायाः भैम्याः, सखीनां, नेत्राणि [ विमुक्त-तत्तद्विषयग्रहाणि ] विमुक्तास्तत्तद्वि-
षयग्रहाः तत्तदर्थग्रहणादिप्रवृत्तयो यैस्तानि सन्ति । एकम् = एक-