नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 128, कुल 226 में से
संदर्भ में पढ़ें११२ नैषधचरितम् । [ द्वितीयः
विधः । [दधत्] [अत्यच्छसुधोज्ज्वलं] अच्छया सुधया लेपनद्रव्येण च सुधा-
वदमृतवच्चोज्ज्वलं वपुर्वहत् । 'सुधालेपोऽमृतं सुधा'इत्यमरः । क्षितिभृन्मन्दिरं =
राजभवनम् इन्दुमौलिताम् = इन्दुमण्डलपर्यन्तशिखरत्वं, कथं नाम न ऋच्छतु =
गच्छत्वेवेत्यर्थः । राजभवनस्य तादृशौन्नत्यं युक्तमिति भावः । अन्यत्र नीलकण्ठस्य
इन्दुमौलित्वमीश्वरत्वं च युक्तमिति भावः । अत्र विशेषणविशेष्याणां श्लिष्टानाम-
भिधायाः प्रकृतार्थमात्रनियन्त्रणात् प्रकृतेश्वरप्रतीतेः ध्वनिरेव ॥ ८२ ॥
उस नगरी में - मेघों से श्यामरङ्ग शिखर प्रदेशवाला, अत्यन्त निर्मल चूने
की छुहाई से सफेद आकार (सतह) वाला और इन्दु मण्डल पर्यन्त (अत्युच्च)
शिखरवाला, क्षितिपाल भीम का राजमहल- (कालकूट विषपान करने से) मेघ
के समान नीलकण्ठवाले, अतीव स्वच्छ अमृत के समान शुभ्र दीप्तिशाली शरीरवाले
और शिर पर चन्द्रमा धारण करनेवाले इन्द्र-मौलि भगवान् शिव के साथ-क्यों
न समानता प्राप्त करता ? ॥ ८२ ॥
बहुरूपकशालभञ्जिका-मुखचन्द्रेषु कलङ्करङ्कवः ।
यदनेककसौधकन्धरा-हरिभिः कुक्षिगतोकृता इव ॥ ८३ ॥
बह्विति । [बहु-रूपक-शाल-भञ्जिका-मुखचन्द्रेषु] बहुरूपकाः भूयिष्ठ-
सौन्दर्याः । शैषिकः कप्रत्ययः । तेषु शालभञ्जिकानां कृत्रिमपुत्रिकाणां मुखचन्द्रेषु
कलङ्करङ्कवः = चन्द्रत्वात् सम्भाविताः कलङ्कमृगाः ते [यदनेकक-सौधकन्धरा-
हरिभिः] यस्यां नगर्याम् अनेककेषां बहूनां सौधानां कन्धरासु कण्ठ-
प्रदेशेषु, ये हरयः सिंहाः, तैः कुक्षिगतीकृता इव = ग्रस्ताः किम् । इत्युत्प्रेक्षा मुख-
चन्द्राणां निष्कलङ्कत्वनिमित्तात् । अन्यथा कथं चन्द्रे निष्कलङ्कतेति भावः ॥ ८३॥
जिस नगरी के बहुत से राजमहलों के खम्भों पर बनी हुई (पत्थर की)
मूर्तियां ने - अनेक रूप की बनी हुई पुतलियों के मुख-चन्द्रों के-कलङ्क रूपी
हरिणों को, मानो खा लिया है - ऐसा प्रतीत होता था ॥ ८३ ॥
बलिसद्मादिवं स तथ्यवागुपरि स्माह दिवोऽपि नारदः ।
अधराय कृता ययेव सा विपरीताजनि भूविभूषया ॥ ८४ ॥
बलीति । स = प्रसिद्धः तथ्यवाक् = सत्यवचनः नारदः बलिसद्मादिवं =
पातालस्वर्गे दिवः = मेरुस्वर्गाद्, अप्युपरि = उपरि स्थितामुत्कृष्टाञ्च । आह स्म=
उक्तवान् । अर्थ = यस्यां भूविभूषणभूषा यया = नगर्या । अधरा = न्यूना, अधस्ताच्च