सामग्री पर जाएँ
सर्वकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 124, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 124

१०८ नैषधचरितम् । [ द्वितीयः
सित-दीप्र-मणि-प्रकल्पिते यद्गारे हसद्ङ्करोदसि ।
निखिलान्निशि पूर्णिमा तिथीनुपतस्थेऽतिथिरैकिका तिथिः॥७६॥
सितेति । [ सित-दीप्र-मणि-प्रकल्पिते ] सितैः दीप्रैश्च मणिभिः प्रकल्पिते
= उज्ज्वलस्फटिकनिर्मिते हसद्ङ्करोदसि = विलसद्ङ्करोदस्के, द्यावापृथिवीव्यापि-
नीत्यर्थः । यद्गारे = यस्या नगर्या गृहेष्वित्यर्थः । जातावेकवचनम् । निशि निखि-
लान् तिथीन् एकिका = एकाकिनी, एकैवेत्यर्थः । 'एकादाकिनच्चासहाये' इति
चकारात् कन्प्रत्ययः । 'प्रत्ययस्थात् कात् पूर्वस्य' इतीकारः । पूर्णिमा तिथिः =
राकातिथिः । 'तदाद्यास्तिथयो द्वयोः' इत्यमरः । अतिथिः सन् उपतस्थे = अति-
थिर्भूत्वा सङ्गतेत्यर्थः । 'उपाद्देवपूजा' इत्यादिना सङ्गतिकरणे आत्मनेपदम् । स्फटिक-
भवनकान्तिनित्यकौमुदीयोगात् सर्वा अपि रात्रयो राकारात्रय इवासन्नित्यभेदोक्ते-
रतिशयोक्तिभेदः ॥७६॥
उस नगरी के सफेद और दीप्तिशाली ( स्फटिक ) मणि के बने हुए, आकाश
एवं पृथ्वी के बीच के हँसते हुए ( प्रकाशमान ) भाग वाले—भवनों में, 'रात्रि'
के समय, अकेली पूर्णिमा तिथि, सब तिथियों के पास, अतिथि होकर आती थी
( अर्थात् स्फटिक मणि के बने हुए विशाल तथा गगनचुम्बी भवनों की शुभ्र चमक
से, आकाश से लेकर धरातल के बीच का भाग, रात्रि में चन्द्रकिरण से सम्पर्क
पाकर, जगमगाता रहता था; जिस से अमावास्या आदि तिथियों में भी अन्धकार
का अभाव रहता था और लोग सब रात को पूर्णिमा की ही रात समझते थे ) ॥
सुदतीजन-मज्जनार्पितैर्घुसृणैर्यत्र कषायिताशया ।
न निशाखिलयापि वापिका प्रससाद ग्रहिलैव मानिनी ॥७७॥
सुदतीति । यत्र = नगर्यां [ सुदतीजन-मज्जनार्पितैः ] शोभना दन्ता
यासां ताः सुदत्यः स्त्रियः । अत्रापि विधानाभावाद्दन्तादेशश्चिन्त्य इति केचित् ।
'अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च' इति चकारात् सिद्धिरित्यन्ये । सुदत्यादयः स्त्रीषु
योगरूढाः, 'स्त्रियां संज्ञायाम्' इति, दत्रादेशात् साधव इत्यपरे । तदेतत्सर्वमभि-
सन्धायह वामनः- 'सुदत्यादयः प्रतिषेधयाः इति । ता एव जना लोकाः तेषां
मज्जनादवगाहनादर्पितैः क्षालितैः, घुसृणैः = कुङ्कुमैः कषायिताशया = सुरभिता-
भ्यन्तरा भोगचिह्नैः कलुषितहृदया च, आशयेन वापिका=दीर्घिका ग्रहिला=ग्रहः ।
'ग्रहोऽनुग्रहनिर्वन्धौ' इति विश्वः । तद्वती दीर्घरोषा । पिच्छादित्वादिलच्, दिवादिः ।