सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 94, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 94

( ६४ )
नायिका- (सहर्षं ससम्भ्रममुत्थाय द्वित्राणि पदानि गत्वा)
कहिं कहिं सो ?
कुत्र कुत्र सः ?
चेटी- (उत्थाय सस्मितं) भट्टिदारिए सो को ?
भर्तृदारिके स कः ?
नायिका- (सलज्जमुपविश्याधोमुखी तिष्ठति)
चेटी- भट्टिदारिए ! णं एदम्हि वत्तुकामा-‘एसो दे
भर्तृदारिके ! नन्वेतदस्मि वक्तुकामा-"एष ते
हिअअट्ठिदो वरो एव्व देईए दिण्णो सिविणए ।
हृदयस्थितो वर एव देव्या दत्तः स्वप्ने ।
पच्छा वि क्खणं एव्व पविमुक्ककुसुमवाणो विअ
पश्चादपि क्षणमेव प्रविमुक्तकुसुमबाण इव
मअरद्धओ भट्टिदारिआए दिट्ठो । सो दे इमस्स
मकरध्वजो भर्तृदारिकया दृष्टः । स तेऽस्य
संदावस्स कारणं जेण एदं सहावसीदलंपि चंदण-
सन्तापस्य कारणं, येन एतत्स्वभावशीतलमपि चन्दन-
लदाघरयं ण दे संदावदुक्खं अवणोदि ।
लतागृहं न ते सन्तापदुःखमपनयति ।
नायिका- (चतुरिकाया अलकं सञ्जयन्ती)
हञ्जे ! चदुरिआ क्खु तुमं, किं दे अवरं पच्छादीअदि ?
हञ्जे ! चतुरिका खलु त्वम्, किं तेऽपरं प्रच्छाद्यते ?
ता कहिस्सं ।
तत्कथयिष्यामि ।