सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 86, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 86

( ५२ )
हज्जे चतुरिए ! कुसुमावचअ—परिसमणिस्सहं मे सरीरं ।
हञ्जे चतुरिके ! कुसुमावचय—परिश्रमनिःसहं मे शरीरम् ।
सरदादवजणिदो विअ मे संदावो अधिअदरं वाधेदि ।
शरदातपजनित इव मे संतापो¹ऽधिकतरं बाधते ।
ता गच्छ तुमं, बालकदलीपत्तपरिक्खवे चंदनलदाघरए
तद् गच्छ त्वं बालकद्लीपत्रपरिक्षिप्ते चन्दनलतागृहे
चंदमणिसिलायलं सज्जीकरेहि 'त्ति । अणुचिट्ठिदंअ मए
चन्द्रमणिशिलातलं सज्जीकुरु' इति । अनुष्ठितञ्च मया
जधा आणत्तं । ता जाव गदुआ भट्टिदारिआए णिवेदेमि ।
यथाऽऽज्ञप्तम् । तद्यावद् गत्वा भर्तृदारिकायै निवेदयामि ।
मनोहरिका—जइ एवं ता लहुं गदुअ णिवेदेहि, जेण से
यद्येवं तल्लघु² गत्वा निवेदय येनास्या-
तहिं गदाए उवसमिदि संदावो ।
स्तत्र गताया उपशाम्यति संतापः ।
चतुरिका— (विहस्यात्मगतम् ) ण ईरिसो से संदावो जो
नेदृशोऽस्याः संतापो य
एव्वं उवसमिसदि । विवित्तरमणीअं चंदणलदाघरअं
एवमुपशमिष्यति । विविक्तरमणीयं चन्दनलतागृहं
पेक्खन्तीए अधिअदरो संदावो हुविस्सदि त्ति तक्केमि ।
प्रेक्षमाणाया अधिकतरः संतापो भविष्यतीति तर्कयामि !
(प्रकाशम् ) ता गच्छ तुमं ।
तद् गच्छ त्वम् ।