सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 82, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 82

( ४८ )
ता एहि णिक्कमम्ह जेण वम्हणो अदिही भविअ
तदेहि निष्क्रामावः येन ब्राह्मणोऽतिथिर्भूत्वा
मुणिजणसक्कासादो लद्धेहिं
मुनिजनसकाशाल्लब्धैः
कन्दमूलफलेहि वि दाव पाणाधारणं करिस्सं ।
कन्दमूलफलैरपि तावत्प्राणधारणं करिष्ये ।
नायकः— (ऊर्ध्वमवलोक्य) अये ! मध्यमध्यास्ते नभस्तलस्य
भगवान्सहस्रदीधितिः । तथाहि —
1 तापात्तत्क्षणघृष्टचन्दनरसापाण्डू कपोलौ वहन्
संसिक्तैर्निजकर्णतालपवनैः संवीज्यमानाननः ।
संप्रत्येष विशेषसिक्तहृदयो हस्तोज्झितैः शीकरैः
2 गाढायल्लकदुःसहामिव दशां धत्ते गजानां पतिः ॥२१॥
तदेहावामपि गच्छावः । (इति निष्क्रान्तौ)
[ इति प्रथमोऽङ्कः ]
──────────
श्लोक न०:२१, अन्वयः - तापात् तत्क्षणघृष्टचन्दनरसापाण्डू कपोलौ
वहन्, संसक्तैः निजकर्णताल पवनैः संवीज्यमानाननः,
हस्तोज्झितैः शीकरैः विशेषसिक्तहृदयः, एष गजानां पतिः
संप्रति गाढायल्लकदुःसहमिवदशां धत्ते ॥