सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 80, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 80

( ४६ )
तापसः— (नायिकां निर्दिश्य) वत्से ! अनुरूपभर्तृगामिनी
भूयाः । राजपुत्रि ! त्वामाह कुलपतिः कौशिक : यथा-
“अतिक्रामति मध्यन्दिनसवनवेला तत्त्वरितमागम्य-
तामिति ।
नायिका— जं गुरुजणो आणवेदि । (आत्मगतम्)
यद्गुरुजन आज्ञापयति ।
एक्कत्तो गुरुवअणं अण्णत्तो दइअदंसणसुहं त्ति ।
एकतो गुरुवचनमन्यतो दयितदर्शनसुखमिति ।
गमणागमणविमूढं अज्जवि दोला एदि मे हिअअम् । १६ ।।
गमनागमनविमूढमद्यापि दोलायते¹ मे हृदयम् ॥
( उत्थाय निःश्वस्य सलज्जं सानुरागं च नायकं पश्यन्ती
तापससहिता निष्क्रान्ता )
नायकः— (सोत्कण्ठं निःश्वस्य नायिकां पश्यन्)
अनया जघनाभोगभरमन्थरयानया ।
अन्यतोऽपि व्रजन्त्या मे हृदये निहितं पदम् ॥२०॥
विदूषकः—भो दिट्ठं जं पेक्खिदव्वं । ता दाणिं मज्झण्हसूर-
भो दृष्टं यत्प्रेक्षितव्यम् । तदिदानीं मध्याह्नसूर्य-
सन्दाव दिउणिदो विअ मे जठरग्गी धमधमाअदि
संतापद्विगुणित इव मे जठराग्निर्धमधमायते² ।
श्लोक न० : १६, अन्वयः— एकतः गुरुवचनम्, अन्यतो दयितदर्शन-
सुखम्, इति गमनागमनविमूढं मे हृदयम् अद्यापि दोलायते ॥
श्लोक न०: २०, अन्वयः—जघनाभोगभरमन्थरयानया अनया अन्यतोऽपि
व्रजन्त्या मे हृदये पदं निहितम् ॥