नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 78, कुल 309 में से
संदर्भ में पढ़ें( ११ )
उष्णीषः स्फुट एष मूर्धनि विभात्यूर्णोयमन्तर्भ्रुवो-
¹श्चक्षुस्तामरसानुकारि हरिणा वक्षःस्थलं स्पर्धते ।
चक्राङ्कं च यथा पदद्वयमिदं मन्ये तथा कोऽप्ययं
नो विद्याधर चक्रवर्तिपदवीमप्राप्य विश्राम्यति ॥१८॥
अथवा कृतं ² संदेहेन । व्यक्तमनेनैव जीमूतवाहनेन
भवितव्यम् । (मलयवतीं निरूप्य) अये ! इयमपि राजपुत्री
(उभौ विलोक्य) चिरात्खलु युक्तकारी विधिः स्याद्यदि
युगलमिदमन्योऽन्यानुरूपं घटयेत् ।
(उपसृत्य, नायकमृद्दिय) स्वस्ति भवते !
नायकः— भगवन् ! जीमूतवाहनोऽभिवादयते ।
(उत्थातुमिच्छति)
तापसः — अलमल मभ्युत्थानेन । ननु “³ सर्वस्याभ्यागतो
गुरुः” इति भवानेवास्माकं पूज्यः । तद्यथासुखं
स्थीयताम् ।
नायिका—अज्ज पणाममि ।
आर्य प्रणमामि ।
श्लोक नं० १८, अन्वयः —
मूर्धनि एष उष्णीषः स्फुटः । अन्तर्भ्रुवोः इयम् ऊर्णा विभाति ।
तामरसानुकारि चक्षुः । वक्षःस्थलं हरिणा स्पर्धते ।
यथा च इदं पदद्वयं चक्राङ्कम् , तथा मन्ये अयं कोऽपि
विद्याधरचक्रवर्तिपदवीमप्राप्य नो विश्राम्यति ॥