सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 76, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 76

( ४२ ) '
उवविसिअ मुहुत्तअं वीसमम्ह ।
उपविश्य, मुहूर्तं विश्राम्यावः ।
नायकः — युक्तमाह भवान् । (उभावुपविशतः)
नायिका— (चेटीमुद्दिश्य)
अइ परिहाससीले ! मा एव्वं करेहि । जइ कदावि कोवि
अयि परिहासशीले ! मैवं कुरु । यदि कदापि कोऽपि
तावसो पेक्खदि तदो मं ¹अविणीदेत्ति सभाविस्सदि
तापसः प्रेक्षते ततो मामविनीतेति सम्भावयिष्यति
[ततः प्रविशति तापसः]
तापसः — आज्ञापितोऽस्मि कुलपतिना² कौशिकेन यथा—
‘वत्स शाण्डिल्य ! पितुराज्ञया सिद्धराजमित्रावसुर्भ-
विष्यद्विद्याधरचक्रवर्तिनं कुमारजीमूतवाहनमिहैव मलय-
पर्वते क्वापि वर्तमानं भगिन्या मलयवत्या वरहेतोर्द्रष्टु-
मद्य गतः । तञ्च प्रतीक्षमाणाया मलयवत्याः कदा-
चिन्मध्यन्दिनसवनवेलातिक्रामेत् । तदेनामाहूयागच्छ’
इति । तद्यावद्गौरीगृहमेव गच्छामि । (परिक्रम्य भूमिं
निरूप्य सविस्मयम् ) अये ! कस्य पुनरियं पांशुले
भूप्रदेशे प्रकाशचक्रमू³चिन्हा पदपंक्तिः ? (अग्रतो
जीमूतवाहनं निरूप्य ) नूनमस्यैवेयं महानुभावस्य।
तथाहि—