नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
DevanagariHindipublished309 पृष्ठ
पृष्ठ 60, कुल 309 में से
संदर्भ में पढ़ेंपृष्ठ 60( २६ )
( २६ )
'विदूषकः—भो वअस्स ! एहि 'अम्हे वि देवदाअदणं
भो वयस्य ! एहि, आवामपि देवतायतनं प्रेक्षावहे
नायकः— वयस्य ! साधूक्तं भवता । वन्द्याः खलु देवताः
(उपसर्पन् सहसा स्थित्वा) वयस्य ! कदाचिद् द्रष्टुं
अनर्होऽयं स्त्रीजनो भविष्यति । तदनेन तावत्तमाल-
¹गुल्मकेनान्तरितौ देवतादर्शनावसरं प्रतिपालयावः
[तथा कुरुतः
[ततः प्रविशति भूमावुपविष्टा वीणां वादयन्ती मलयवती चेटी च
नायिका— (गायति)
उत्फुल्लकमलकेसर परागगौरद्यु ते ! मम हि गौरि !
अभिवाञ्छितं प्रसिध्यतु² भगवति ! युष्मत्प्रसादेन ॥
नायकः— (कर्णं दत्वा) वयस्य ! अहो³ गीतम् !
वाद्यम् !
श्लोक नं १४, अन्वयः—
उत्फुल्लकमलकेसरपरागगौरद्यु ते हि भगवति गौरि !
युष्मत्प्रसादेन मम अभिवाञ्छितं प्रसिध्यतु ।