सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 52, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 52

( १८ )
^1माद्यद्दिग्गजगण्डभित्तिक^2घषणैर्भग्नस्रवच्चन्दनः ।
क्रन्दत्कन्दरगह्वरो जलनिधेरास्फालितो^3 वीचिभिः।
पादालक्तरक्तमौक्तिकशिलः सिद्धाङ्गनानां गतैः,
दृष्टोऽयं मलयाचलः किमपि^4 मे चेतः करोत्युत्सुकम् ॥६॥
तदेहि, अत्रारुह्य वासयोग्यं किञ्चिदाश्रमपदं निरूपयावः।
विदूषकः — एव्वं करेम्ह । (अग्रतः स्थित्वा) एदु भवं ।
एवं कुर्व । एतु भवान् ।
[आरोहणं नाटयतः]
नायकः — (दक्षिणाक्षिस्पन्दनं सूचयन् ) अये ! —
दक्षिणं स्पन्दते चक्षुः फलाकाङ्क्षा न मे क्वचित्।
न च मिथ्या मुनिवचः कथयिष्यति किं न्विदम् ? ॥१०
विदूषकः —भो वअस्स ! अवस्समासण्णं दे पिअं णिवेदयदि
भो वयस्य ! अवश्यमासन्नं^5 ते प्रियं निवेदयति।
नायकः — एवं नाम^6 यथाह भवान् ।
श्लोक नं०: ९, अन्वयः —माद्यत् दिग्गजगण्डभित्तिकषणैः चन्दनः
भग्नस्रवत्,
जलनिधेः वीचिभिः आस्फालितः कन्दरगह्वरः क्रन्दत्;
सिद्धांगनानां गतैः पादालक्तमौक्तिकशिलः (मलयाचलः),
अयं मलयाचलः दृष्टः (एव) चेतः मे किमपि उत्सुकं करोति
श्लोक न० १०, अन्वयः —
दक्षिणं चक्षुः स्पन्दते, क्वचित् मे फलाकाङ्क्षा न ;
मुनिवचः च न मिथ्या, किं नु इदं कथयिष्यति ॥