सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 44, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 44

( १० )
विदूषकः—(सरोषं) भो वअस्स ! ण णिव्विएणो ¹ एव तुमं एतित्तं
भो वयस्य, न निर्विण्ण एव त्वमेतावन्तं
कालं एदाणं जीवन्तमुआणं ² वुड्ढाणं किदे ³ इमं ईदिसं
कालमेतयोर्जीवन्मृतयो वृद्धयोः कृते इदमीदृशं
वणवासदुक्खं अणुहवन्तो । ता पसीद । दाणिं पि
वनवासदुःखमनुभवन् । तत् प्रसीद । इदानीमपि
दाव गुरुचरणसुस्सूसानिब्बन्धादो ⁴ णिव्वत्तिअ
तावद्गुरुचरणशुश्रूषानिर्बन्धान्निवृत्य
इच्छापरिभोगरमणीज्जं रज्जसोक्खं अणुहवीअदु ।
इच्छापरिभोगरमणीयं राज्यसौख्यमनुभूयताम् ।
नायकः—वयस्य, न सम्यगभिहितं त्वया । कुतः ?
तिष्ठन् भाति पितुः पुरो भुवि यथा, सिंहासने किं तथा ?
यत्संवाहयतः ⁵ सुखं तु चरणौ तातस्य, — किं राजके ⁶?
किं भुक्ते भुवनत्रये ⁷ धृतिरसौ, भुक्तोज्झिते ⁸ या गुरो-
रायासः ⁹ खलु राज्यमुज्झितगुरोस्तत्रास्ति कश्चिद् गुणः? ॥७
श्लोक नं० ७, अन्वयः— पितुः पुरो भुवि तिष्ठन् यथा भाति, तथा किं
सिंहासने (तिष्ठन् भाति) ? तातस्य चरणौ संवाहयतः यत् सुखं
किं (तत्) राजके (अस्ति) ? गुरोः भुक्तोज्झिते भुक्ते या
धृतिः, किम् असौ भुवनत्रये (भुक्ते अस्ति) ? उज्झितगुरोः राज्यं
खलु आयासः । (किं) तत्र कश्चिद् गुणः अस्ति ? ॥