नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 42, कुल 309 में से
संदर्भ में पढ़ें( ८ )
वितक्किअ तवोवणं गदो ।
वितर्क्य तपोवनं गतः
सूत्रधार :— (सनिर्वेदम्) अये ! कथं मां परित्यज्य
तपोवनं प्रयातौ पितरौ तत्किमिदानीं युज्यते ?
(विचिन्त्य) अथवा कथमहं गुरुचरण परिचर्य्या-
सुखं परित्यज्य गृहे तिष्ठामि ? कुतः—
पित्रोर्विधातुं शुश्रूषां त्यक्त्वैश्वर्यं क्रमागतम् ।
वनं याम्यहमप्येष, यथा जीमूतवाहनः ॥ ५ ॥
(इति निष्क्रान्तौ) [आमुखम्]
[ततः प्रविशति नायको विदूषकश्च]
नायक :— (सनिर्वेदं) वयस्य आत्रेय,
रागस्यास्पदमित्यवैमि, न हि मे ध्वंसीति १ न प्रत्ययः
कृत्याकृत्यविचारणासु विमुखं को वा न वेत्ति क्षितौ ।
एवं निन्द्यमपीदमिन्द्रियवशं प्रीतयै भवेद्यौवनं,
भक्त्या याति यदीत्थमेव पितरौ शुश्रूषमाणस्य मे ॥६॥
नं० ५, अन्वय :—
क्रमागतम् ऐश्वर्यं त्यक्त्वा पित्रोः शुश्रूषां विधातुम्
अहमपि वनं यामि यथा एष जीमूतवाहनः ॥
श्लोक नं०६, अन्वय :— (यौवनं) रागस्य आस्पदम् इति अवैमि।
नहि ध्वंसि इति न मे प्रत्ययः । (एतत्) कृत्याकृत्यविचारणासु
विमुखं (इति) क्षितौ को वा न वेत्ति ।
एवम् इन्द्रियवशं निन्द्यमपि इदं यौवनं मे प्रीतयै भवेत्
यदि इत्थमेव भक्त्या पितरौ शुश्रूषमाणस्य याति ॥