नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 40, कुल 309 में से
संदर्भ में पढ़ें( ६ )
तद्यावदहं गृहं गत्वा गृहिणीमाहूय सङ्गीतकमनुतिष्ठामि ।
(परिक्रम्य नेपथ्याभिमुखमवलोक्य) इदमस्मद्गृहं ।
यावत् प्रविशामि । (प्रविश्य) आर्ये, इतस्तावत् ।
द्विजपरिजनबन्धुहिते ! मद्भवन्तटाकहंसि ! मृदुशीले !
परपुरुषचन्द्रकमलिन्यार्ये ! कार्यादितस्तावत् ॥ ४ ॥
नटी–(प्रविश्य सास्रम् ) अज्ज ! इअम्हि मन्दभग्गा । आणवेदु
आर्ये ! इयमस्मि मन्दभाग्या । आज्ञापयतु
अज्जउत्तो को णिओओ अणुचिट्ठीअदु त्ति ।
आर्यपुत्रः को नियोगोऽनुष्ठीयतामिति ।
सूत्रधारः— (नटीमवलोक्य) आर्ये ! नागानन्दे नाट-
यितव्ये किमिदमकारणमेव रुद्यते ?
नटी–अज्ज ! कहं ण रोइस्सं ? यदो दाव तादो
आर्ये ! कथं न रोदिष्यामि, यतस्तावत् तातः
अज्जाए सह थविरंभावं १ जाणिअ अदूरजादणिव्वेदो २
आर्य्यया सह स्थविरभावं ज्ञात्वा अदूरजातनिर्वेदः
‘कुडुम्बभारुव्वहणजोग्गो दाणीं तुमं’ त्ति हिअए
कुटुम्बभारोद्वहनयोग्य इदानीं त्वमिति हृदये
श्लोक नं० ४, अन्वय :—
द्विजपरिजनबन्धु हिते, मद्भवन्तटाकहंसि, मृदुशीले,
परपुरुषचन्द्रकमलिनि, आर्ये, कार्याद् इतस्तावत् ।