सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 38, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 38

( ४ )
(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः—अलमतिविस्तरेण । अद्याहमिन्द्रोत्सवे
सबहुमानमाहूय नानादिग्देशागतेन राज्ञः श्रीहर्षदेवस्य
पादपद्मोपजीविना राजसमूहेनोक्तः—‘यत्तदस्मत्स्वामिना
श्रीहर्षदेवेनापूर्व¹वस्तुरचनाऽलंकृतं विद्याधरजातकप्रतिबद्धं
‘नागानन्दं’ नाम नाटकं कृतमित्यस्माभिः श्रोत्रपरम्परया
श्रुतं, न च प्रयोगतो दृष्टम् । तत्तस्यैव राज्ञः
सकलजनहृदयाह्लादिनो बहुमानादस्मासु चानुग्रहबुद्ध्या
यथावत्प्रयोगेणाद्य त्वया नाटयितव्यमिति । तद्यावदिदानीं
नेपथ्यरचनां² कृत्वा यथाऽभिलषितं सम्पादयामि ।
(परिक्रम्यावलोक्य च)
आवर्जितानि³ च सकलसामाजिकमनांसीति मे निश्चयः ।
यतः—
श्री हर्षो निपुणः कविः, परिषद्प्येषा गुणग्राहिणी,⁴
लोके हारि च बोधिसत्त्व⁵चरितं, नाट्ये च दक्षा वयम्।
वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं,⁶ किं पुन-
र्मद्भाग्योपच⁷यादयं समुदितः सर्वो गुणानां गणः ॥ ३ ॥
श्लोक नं० ३, अन्वय :—
श्री हर्षो निपुणः कविः । एषा परिषदपि गुणग्राहिणी ।
बोधिसत्त्वचरितं च लोके हारि । वयं च नाट्ये दक्षाः ।
इह तु एकैकमपि वस्तु वाञ्छितफलप्राप्तेः पदम् ।
किं पुनः मद्भाग्योपचयाद् गुणानां सर्वो गणः अयं समुदितः ॥