सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 288, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 288

( २६४ )
तथापीदमस्तु - [भरत वाक्यम्] -
वृष्टिं हृष्टशिखण्डिताण्डवभृतो मुञ्चन्तु काले घनाः,
कुर्वन्तु प्रतिरूढसन्ततहरिच्छस्योत्तरीयां क्षितिम् ।
चिन्वानाः सुकृतानि वीतविपदो निर्मत्सरैर्मानसै—
मोदन्तां घनबद्धबान्धवसुहृद्गोष्ठीप्रमोदाः प्रजाः ॥४०॥
अपि च—
शिवमस्तु सर्वजगतां परहितनिरता भवन्तु भूतगणाः ।
दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥४१॥
[इति निष्क्रान्ताः सर्वे]
॥ इति पञ्चमोऽङ्कः ॥
॥ इति नागानन्दम् ॥
श्लोक नं०: ४०, अन्वयः —
हृष्टशिखण्डिताण्डवभृतो घनः काले वृष्टिं मुञ्चन्तु; प्रतिरूढ-
सन्ततहरिच्छस्योत्तरीयां क्षितिं कुर्वन्तु; प्रजाः वीतविपदः
निर्मत्सरैः मानसैः सुकृतानि चिन्वानाः घनबद्धबान्धवसुहृद्गोष्ठी-
प्रमोदाः मोदन्ताम् ॥
श्लोक नं०: ४१, अन्वयः —
सर्वजगतां शिवमस्तु; भूतगणाः परहितनिरता भवन्तु; दोषाः
नाशं प्रयान्तु; लोकः सर्वत्र सुखी भवतु ॥