सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 286, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 286

( २६२ )
अपि च,
अग्रेसरी भवतु काञ्चनचक्रमेतदेष द्विपश्च धवलो दशनैश्चतुर्भिः ।
श्यामो हरिर्मलयवत्यपि चेत्यमूनि रत्नानि ते समवलोकय
चक्रवर्तिन् ! ॥३८॥
अपि च, आलोक्यन्ताममी मत्प्रचोदिताः शारदशशाङ्कनिर्मल-
बालव्यजनहस्ताश्चलच्चूडामणिमरीचिरचितेन्द्रचाप-
पंक्तयो भक्त्यावनतपूर्वकायाः प्रणमन्ति मतङ्गदेवादयो
विद्याधरपतयः । तदुच्यतां, किं ते भूयः प्रियमुपकरोमि ?
नायकः— (जानुभ्यां स्थित्वा) अतः परमपि प्रियमस्ति ?
त्रातोऽयं शङ्खचूडः पतगपतिमुखाद्वैनतेयो विनीत-
स्तेन प्राग्भक्षिता ये विषधरपतयो जीवितास्तेऽपि सर्वे ।
मत्प्राणाप्त्या विमुक्ता न गुरुभिरसवश्चक्रवर्त्तित्वमाप्तं,
साक्षात् त्वं देवि ! दृष्टा प्रियमपरमतः किं पुनः प्रार्थ्यते यत् ॥३९॥
श्लोक नं०: ३८, अन्वयः—
एतत् काञ्चनचक्रम् अग्रेसरीभवतु; चतुर्भिः दशनैः एष धवलो
द्विपश्च; श्यामो हरिः; मलयवत्यपि च, इति अमूनि ते रत्नानि
चक्रवर्तिन् ! समवलोकय ।
श्लोक नं०: ३९, अन्वयः—
पतगपतिमुखात् अयं शङ्खचूडः त्रातः; वैनतेयः विनीतः; तेन
प्राग्भक्षिता ये विषधरपतयः तेऽपि सर्वे जीविताः; मत्प्राणाप्त्या
गुरुभिः असवः न विमुक्ताः; चक्रवर्तित्वमाप्तम्; देवि त्वं साक्षात्
दृष्टा; पुनः अतः अपरं प्रियं किं यत् प्रार्थ्यते ?