सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 272, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 272

( २४८ )
वृद्धा— हा ! किं णु क्खु एत्थं वत्तदि ? (सोरस्ताडम्)
हा ! किं नु खल्वेवं वर्त्तते ?
परित्ताअह परित्ताअह । एसो क्खु मे पुत्तओ विवज्जइ ।
परित्रायध्वं परित्रायध्वम् । एष खलु मे पुत्रको विपद्यते ।
मलयवती—हा अज्जउत्त ! परिच्चइडुकामो विअ लक्खीअसि ।
हा आर्यपुत्र ! परित्यक्तुकाम इव लक्ष्यसे ।
नायकः— (अञ्जलिं कर्तुमिच्छन्) शङ्खचूड ! समानय
मे हस्तौ ।
शङ्खचूडः— (कुर्वन्) कष्टम् !! अनाथीकृतं जगत् ।
नायकः— (अर्द्धोन्मीलितचक्षुः पितरौ पश्यन्) तात ! अम्ब !
अयं मे पश्चिमः प्रणामः । यतः—
गात्राण्यमूनि न वहन्ति सचेतनत्वं
श्रोत्रं स्फुटाक्षरपदां न गिरः शृणोति ।
कष्टं निमीलितमिदं सहसैव चक्षु-
र्हा तात ! यान्ति विवशस्य ममासवोऽमि ॥३०॥
¹ अथवा किमनेन प्रलपितेन ।
[“संरक्षता पन्नगमद्य पुण्यम्”—इत्यादि पूर्वोक्तं श्लोकंपठित्वा पतति]
श्लोक नं०: ३०, अन्वयः—
(मम) अमूनि गात्राणि सचेतनत्वं न वहन्ति । श्रोत्रं स्फुटाक्षर-
पदां गिरः न शृणोति । कष्टम्, इदं चक्षुः सहसैव निमीलितम् ।
हा तात [......] असवः यान्ति ॥