नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 258, कुल 309 में से
संदर्भ में पढ़ें( २३४ )
दर्शयितुम् । अथवा किमग्निहेतोः पर्याकुलोऽस्मि ? समीपस्थ
एवास्मि जलनिधेः । तद्यावदिदानीम्—
^1ज्वालाभङ्गैस्त्रिलोकीग्रसनरसचलत्कालजिह्वाग्रकल्पैः
सर्पद्भिः सप्त सर्पिष्कणमिव कवलीकर्तुमीशे^2 समुद्रान् ।
स्वैरेवोत्पातवातप्रसरपटुतरैर्धुक्षिते पक्षवातै-
रस्मिन् कल्पावसानज्वलनभयकरे वाडवाग्नौ पतामि ॥२२॥
[ इत्युत्थातुमिच्छति ]
^3नायकः- भोः पक्षिराज ! अलमनेनाध्यवसायेन । नायं
प्रतीकारोऽस्य पाप्मनः ।
गरुडः- (जानुभ्यां स्थित्वा कृताञ्जलिः) भो महात्मन् !
कस्तर्हि कथ्यताम् ?
नायकः- प्रतिपालय क्षणमेकम् । पितरौ मे प्राप्तौ । यावदेतौ
प्रणमामि ।
गरुडः- एवं क्रियताम् ।
जीमूतकेतुः- (दृष्ट्वा सहर्षम्)- देवि ! दिष्ट्या वर्द्धसे । अयमसौ
वत्सो जीमूतवाहनो न केवलं ध्रियते, प्रत्युत पुरः कृताञ्जलिना
^4गरुडेन शिष्येणेव पर्युपास्यमानस्तिष्ठति ।
श्लोक न० : २२, अन्वयः- त्रिलोकीग्रसनरसचलत्कालजिह्वाग्रकल्पैः
सर्पद्भिः ज्वालाभङ्गैः सप्तसमुद्रान् सर्पिष्कणमिव कवलीकर्त्तुमीशे
उत्पातवातप्रसर पटुतरैः स्वैरेव पक्षवातैः धुक्षिते
कल्पावसानज्वलनभयकरे अस्मिन् वाडवाग्नौ पतामि :