नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 256, कुल 309 में से
संदर्भ में पढ़ें( २३२ )
[शङ्खचूडः पार्श्वपतितमुत्तरीयं गृहीत्वा तथा करोति।]
[ततः प्रविशति पत्नीवधूसमेतो जीमूतकेतुः।]
जीमूतकेतुः- (सास्रम्) हा पुत्र जीमूतवाहन ! -
आत्मीयः पर इत्ययं खलु कुतः सत्यं कृपायाः क्रमः ?
किं रक्षामि बहून् किमेकमिति ते जाता न चिन्ता कथम् ?
तार्क्ष्यात्त्रातुमहिं स्वजीवितपरित्यागं त्वया कुर्वता,
येनात्मा पितरौ वधूरिति हतं निःशेषमेतत्कुलम् ॥२१॥
वृद्धो- (मलयवतीमुद्दिश्य) जादे ! विरम मुहुत्तअं । अविरत-
जाते ! विरम मुहूर्त्तकम् । अविरत-
णिवडंतबाष्पबिंदूहिं अहिहवीअदि अअंअग्गी ।
निपतद्बाष्पबिन्दुभिर् अभिभूयतेऽयमग्निः ।
[सर्वे परिक्रामन्ति]
जीमूतकेतुः- हा पुत्र जीमूतवाहन !
गरुडः- (श्रुत्वा) 'हा पुत्र जीमूतवाहन ! इति ब्रवीति। तद्
व्यक्तमयमस्य पिता। तत् किमेतदीयेनाग्निना आत्मान-
मुद्दीपयामि ? न शक्नोम्यस्य पुत्रघाताल्लज्जया मुखं
श्लोक नं ०: २१, अन्वयः -
अयं आत्मीयः (अयं) परः इति कृपायाः क्रमः कुतः ? (तत्)
खलु सत्यम्। (परं) किं बहून् रक्षामि, किमेकं (वा) इति
चिन्ता ते कथं न जाता ? येन तार्क्ष्यात् अहिं स्वजीवितपरित्यागं
कुर्वता त्वया आत्मा पितरौ वधूरिति निःशेषमेतत्कुलं हतम् ।