सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 254, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 254

( २३० )
सर्वथा महत्यंहःपङ्के निमग्नोऽस्मि ।
नायकः— भो फणिपते ! किमेवमुद्विग्नोऽसि ?
शङ्खचूडः— किमस्थानमिदमावेगस्य?
स्वशरीरेण शरीरं ताद्यत् परिरक्षतो मदीयमिदम् ।
युक्तं नेतुं भवता पातालतलादपि तलं माम् ॥२०॥
गरुडः—अये ! करुणार्द्रचेतसानेन महात्मनास्मद्ग्रासगोचर-
पतितस्यास्य फणिनः प्राणान् रक्षितुं स्वदेह आहारार्थ-
मुपनीतः। तन्महदकृत्यमेतन्मया कृतम् । किं बहुना,
बोधिसत्त्व एवायं व्यापादितः । तस्य महतः पापस्याग्नि-
प्रवेशादृते नान्यत् प्रायश्चित्तं पश्यामि। तत् क्व नु
खलु वह्निं समासादयामि ? (दिशः पश्यन्—) अये !
अमी केऽपि गृहीताग्नय इत एवागच्छन्ति। तद्याव-
देतान् प्रतिपालयामि ।
शङ्खचूडः — कुमार ! पितरौ ते प्राप्तौ ।
नायकः— (ससम्भ्रमम् ) शङ्खचूड ! समुपविश्यानेनोत्तरीये-
णाच्छादितशरीरं कृत्वा धारय माम् । अन्यथा कदा-
चिदीदृशं सहसैवं मां दृष्ट्वा पितरौ जीवितं जहाताम् ।


श्लोक नं०: २०, अन्वयः—
स्वशरीरेण ताद्यत् मदीयम् इदं शरीरं परिरक्षता भवता मां
पातालतलादपि तलं नेतुं युक्तम् ॥