सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 246, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 246

( १२२ )
-वत्सः ! अवितथैषा तव भारती भवतु । तथापि
साग्नीनामेवास्माकं युक्तमनुसर्तुम् । तदनुसरतु भवान् ।
वयमप्यग्निशरणादग्निमादाय त्वरितमेवानुगच्छामः ।
[पत्नीवधूसमेतो निष्क्रान्तः ।]
शङ्खचूडः - तद्यावद् गरुडमनुसरामि । (परिक्रम्य अग्रतो निर्वर्ण्य) -
^1कुर्वाणो रुधिराद्र्रचञ्चुकषणैर्दोखीरिवाद्रेस्तटीः,
प्लुष्टोपान्तवनान्तरः स्वनयनज्योतिःशिकासञ्चयैः ।
मज्जद्वङ्ककठोरघोरनखरप्रान्तावगाढावनिः
शृङ्गाग्रे मलयस्य पन्नगपुरिर्दूरादसौ दृश्यते ॥१४॥
[ततः प्रविशति आसनस्थः पुरःपतितनायको गरुडः]
गरुडः - (आत्मगतम्) जन्मन. प्रभृति भुजङ्गपतीनश्नन्।
नेदमाश्चर्यं मया दृष्टपूर्वं यदयं महासत्वो न केवलं न
व्यथते प्रत्युत प्रहृष्ट इव किमपि दृश्यते । तथाहि-
श्लोक नं०: १४, अन्वयः- रुधिराद्र्रचञ्चुकषणैः अद्रेः तटीः दोधीः इव
कुर्वाणः, स्वनयनज्योतिःशिखासञ्चयैः प्लुष्टोपान्तवनान्तरः,
मज्जद्वङ्ककठोरघोरनखरप्रान्तावगाढावनिः, असौ पन्नगरिपुः
शृङ्गाग्रे दूरात् दृश्यते ॥