नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 244, कुल 309 में से
संदर्भ में पढ़ें(२२०)
जीमूतकेतुः— पतिव्रते ! किमेवमाकुलयसि ? ननु सर्वेषामे-
वास्माकमयं निश्चयः ।
वृद्धा- महाराअ ! ता किं अम्हेहिं पडिवालीअदि ?
महाराज ! तत्किमस्माभिः प्रतिपाल्यते ?
जीमूतकेतुः— न खलु देवि ! किञ्चित् । किन्त्वाहिताग्नेर्ना-^1
न्येनाग्निसंस्कारो विहितः^2 । अतोऽग्निहोत्रशरणाद्-
ग्नीनादायात्मानमुद्दीपयामः^3 ।
शङ्खचूडः— (आत्मगतम्)— कष्टं ! ममैकस्य कृते सकल-
मेवेदं विद्याधरकुलमुच्छिन्नम्। तदेवं तावत्। (प्रकाशम्)
तात ! न खल्वनिश्चित्यैव युक्तमिदमीदृशं साहसमनु-
ष्ठातुम् । विचित्राणि हि दैवविलसितानि । कदाचिन्नायं
नाग इति ज्ञात्वा परित्यजेन्नागशत्रुः । तदनयैव दिशा
वैनतेयमनुसरामस्तावत् ।
वृद्धा— सव्वहा देवदाणं पसादेण जीवतस्स पुत्तअस्स मुहं
सर्वथा देवतानां प्रसादेन जीवतः पुत्रस्य मुखं
दंसेम ।
पश्यामः ।
मलयवती-(आत्मगतम्) दुल्हहं क्खु एदं मम मंदभग्गाए ।
दुर्लभं खल्वेतन्मम मन्दभाग्यायाः