सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 238, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 238

( २१४ )
शङ्खचूडः—श्रूयताम्। शङ्खचूडो नाम नागः खल्वहम्। आहारार्थं
वासुकिना वैनतेयाय प्रेषितः। किं बहुना विस्तरेण !
कदाचिदियं रुधिरधारापद्धतिः पांसुभिरवकीर्यमाणा
दुर्लभ्यतामुपयाति। तत्संक्षेपतः कथयामि—
विद्याधरेण केनापि करुणाविष्टचेतसा।
मम संरक्षिताः प्राणा दत्त्वात्मानं गरुत्मते ॥११॥
जीमूतकेतुः— कोऽन्य एवं परहितव्यसनी ? वत्स ! ननु
स्पष्टमेवोच्यतां जीमूतवाहनेनेति। हा हतोऽस्मि
मन्दभाग्यः।
वृद्धा- हा पुत्तअ ! कहं तुए एदं किदं ?
हा पुत्रक ! कथं त्वयैतत्कृतम् ?
मलयवती— (सास्रम्) कहं सच्चीभूदं जेव्व दुच्चिंतिदं ?
कथं सत्यीभूतमेव दुश्चिन्तितम् ?.
[सर्वे मोहं गच्छन्ति]
शङ्खचूडः— (सास्रम्) नूनमेतौ पितरौ तस्य महासत्त्वस्य।
कथमप्रियवादिना मया इमामवस्थां नीतौ। अथवा
(विषादृते विषधरस्य मुखात् किमन्यन्निःसरति ? अहो
श्लोक नं०: ११, अन्वयः—
करुणाविष्टचेतसा केनापि विद्याधरेण गरुत्मते आत्मानं दत्त्वा मम
प्राणाः संरक्षिताः।