नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 230, कुल 309 में से
संदर्भ में पढ़ें( २०६ )
वृद्धा-(सविषादम्) महाराज ! पुत्तअस्स विअ मे एदं चूडारअणं।
महाराज ! पुत्रकस्येव मे एतच्चूडारत्नम् ।
मलयवती- अम्ब ! मा एवं भण ।
अम्ब ! मैवं भण ।
सुनन्दः- महाराज ! मैवमविज्ञाय विकलवीभूः । अत्र हि-
तार्क्ष्येण भक्ष्यमाणानां पन्नगानामनेककः ।
उल्कारूपाः पतन्त्येते शिरोमणय ईदृशाः ॥ ६ ॥
जीमूतकेतुः-देवि ! सोपपत्तिकमभिहितं सुनन्देन । कदाचि-
देवमपि स्यात् ।
वृद्धा-सुणंदअ ! जाव इमाए वेलाए ससुरसदणं जेव्व
सुनन्दक ! यावदनया वेलया श्वसुरसदनमे-
आअदो मे पुत्तओ भविस्सदि । ता गच्छ, जाणिअ
वागतो मे पुत्रको भविष्यति । तद्गच्छ , ज्ञात्वा
लहुं संपादेहि ।
लघु सम्पादय⁴ ।
सुनन्दः — यदाज्ञापयति देवी । [इति निष्क्रान्तः]
जीमूतकेतुः- देवि ! अपि नागचूडामणिः स्यात् ।
श्लोक नं०: ६, अन्वयः—
तार्क्ष्येण भक्ष्यमाणानां पन्नगानाम् एते ईदृशाः उल्कारूपाः शिरो-
मणयः अनेकशः पतन्ति ।