सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 224, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 224

क्षौमे भङ्गवती¹ तरङ्गतरेले फेनाम्बुतुल्ये वहन् ,
जाह्नव्येव² विराजितः सवयसा देव्या महापुण्यया ।
धत्ते तोयनिधेरयं सुसदृशीं जीमूतकेतुः श्रियं,
यस्यैषाऽन्तिकवर्तिनी मलयवत्याभाति वेला यथा ॥२॥
तद्यावदुपसर्पामि ।
[ततः प्रविशति पत्नीवधूसमेतो जीमूतकेतुः]
जीमूतकेतुः- भुक्तानि यौवन सुखानि यशोऽवकीर्णं,
राज्ये स्थितं³ स्थिरधिया चरितं तपोऽपि ।
श्लाघ्यः सुतः सुसदृशान्वयजा स्नुषेयं
चिन्त्यो मया ननु कृतार्थतयाद्य मृत्युः ॥ ३ ॥
सुनन्दः - (सहसोत्सृत्य)- जीमूतवाहनस्य⁴--
जीमूतकेतुः -(कर्णौ पिधाय)- शान्तं पापं, शान्तं पापम् ।
श्लोक नं०: २, अन्वयः-
भङ्गवती तरङ्गतरेले फेनाम्बुतुल्ये क्षौमे वहन्, जाह्नव्या एव
सवयसा महापुण्यया देव्या विराजितः, अयं जीमूतकेतुः तोयनिधेः
सुसदृशीं श्रियं धत्ते, यस्य अन्तिकवर्तिनी एषा मलयवती वेला
यथा आभाति ।
श्लोक नं०: ३, अन्वयः-
(मया) यौवनसुखानि भुक्तानि, यशोऽवकीर्णं, स्थिरधिया
राज्ये स्थितं, तपोऽपि चरितम् ; सुतः श्लाघ्यः, इयं स्नुषा
सुसदृशान्वयजा, ननु मया कृतार्थतया अद्य मृत्युः चिन्त्यः ।