नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 216, कुल 309 में से
संदर्भ में पढ़ें( १६२ )
शयितेन मातुरङ्के विस्रब्धं¹ शैशवे न तत्प्राप्तम्।
लब्धं सुखं मयास्या वध्यशिलाया यदुत्सङ्गे ॥ २४॥
तदयमागतो गरुत्मान् , यावदात्मानमाच्छादयामि।
[तथा करोति]
[ततः प्रविशति गरुडः]
गरुडः- क्षिप्त्वा बिम्बं हिमांशोर्भयकृतवलयां संस्मरन् शेषमूर्तिं
सानन्दं स्यन्दनाश्वत्रसनविचलिते पूष्णि² दृष्टोऽग्रजेन ।
एष प्रान्तावसज्जज्जलधरपटलात्यायतीभूतपक्षः,
प्राप्तो वेलामहीध्रं मलयमहमिहग्रासगृध्नुः क्षणेन ॥२५॥
नायकः- (सपरितोषम्) -
संरक्षता पन्नगमद्य पुण्यं मयार्जितं यत्स्वशरीरदानात् ।
भवे भवे³ तेन ममैवमेवं भूयात्परोपकाराय शरीरलाभः ॥२६॥
श्लोक नं० : २४, अन्वयः-
शैशवे मातुः अङ्के विस्रब्धं शयितेन मया तत् सुखं न प्राप्तं
यत् (सुखं) अस्याः वध्यशिलायाः उत्सङ्गे लब्धम् ।
श्लोक नं० : २५, अन्वयः -
हिमांशोः बिम्बं क्षिप्त्वा, भयकृतवलयां शेषमूर्तिं संस्मरन् ,
स्यन्दनाश्वत्रसनविचलिते पूष्णि अग्रजेन सानन्दं दृष्टः,
प्रान्तावसज्जज्जलधरपटलात्यायतीभूतपक्षः एषोऽहम्
अहिग्रासगृध्नुः क्षणेन इह वेलामहीध्रं मलयं प्राप्तः ।
श्लोक नं० : २६, अन्वयः -
अद्य स्वशरीरदानात् पन्नगं संरक्षता मया यत् पुण्यम् अर्जितं,
तेन भवे भवे मम एवमेवं परोपकाराय शरीरलाभः भूयात् ।