नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 192, कुल 309 में से
संदर्भ में पढ़ें( १६४ )
अहो ! कष्टमनवसानेयं$^1$ विपत्तिर्नागानाम् । (आत्मगतम्)
अपि शक्नुयामहं स्वशरीरसमर्पणेन एकस्यापि नागस्य
प्राणपरिरक्षां कर्तुम् ।
[ततः प्रविशति प्रतिहारः]
प्रतीहारः- आरूढोऽस्मि गिरिशिखरं, यावन्मित्रावसुमन्वि-
ष्यामि । (परिक्रम्य) अयं मित्रावसुर्जामातुः समीपे
तिष्ठति । (उपसृत्य) विजयेतां कुमारौ ।
मित्रावसुः- सुनन्द ! किं निमित्तमिहागमनम् ?
प्रतीहारः- (कर्णे कथयति)
मित्रावसुः- कुमार ! तातो मामाह्वयति ।
नायकः गम्यताम् ।
मित्रावसुः- कुमारेणापि बहुप्रत्यवायेऽस्मिन्$^2$ प्रदेशे न चिरं
स्थातव्यम् ! [इति निष्क्रान्तः]
नायकः- यावदहमप्यस्माद्गिरिशिखरादवतीर्य समुद्रतटम-
वलोकयामि । [परिक्रामति]
[नेपथ्ये]- हा पुत्तअ संखचूड ! कहं वावादिअमाणो अज्ज
हा पुत्रक$^3$ शङ्खचूड़ ! कथं व्यापायमानोऽद्य
किल तुमं मए पेक्खिदव्वो ?
किल त्वं मया प्रेक्षितव्यः ?
नायकः-(आकर्ण्य) अये योषित इवार्त्तप्रलापः । 'केयं !
कुतो वास्या भयमिति स्फुटीकरिष्ये । (परिक्रामति)