नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 190, कुल 309 में से
संदर्भ में पढ़ेंजिह्वासहस्रद्वितयस्य¹ मध्ये नैकापि सा तस्य किमस्ति जिह्वा।
एकाहिरक्षार्थमहिद्विषेऽद्य दत्तो मयात्मेति यया ब्रवीति ॥५॥
मित्रावसुः- प्रतिपन्नं तत् पक्षिराजेन —
इत्येष भोगिपतिना विहितव्यवस्थो²
यान् भक्षयत्यहिपतीन् पतगाधिराजः।
यास्यन्ति यान्ति च गताश्च दिनैर्विवृद्धिं,
तेषाममी तुहिनशैलरुचोऽस्थिकूटाः ॥६॥
नायकः- आश्चर्यम् !!!
सर्वाशुचिनिधानस्य कृतघ्नस्य³ विनाशिनः ।
शरीरकस्यापि⁴ कृते मूढाः पापानि कुर्वते ॥७॥
श्लोक नं०: ५, अन्वयः —
किं जिह्वासहस्रद्वितयस्य मध्ये तस्य एका अपि सा जिह्वा नास्ति, यया
(स) ब्रवीति — "एकाहिरक्षार्थम् , अहिद्विषे मया आत्मा दत्तः” इति।
श्लोक नं०: ६, अन्वयः—
इति भोगपतिना विहितव्यवस्थः एष पतगाधिराजः यान् अहिपतीन्
भक्षयति तेषां तुहिनशैलरुचः अमी अस्थिकूटाः दिनैः विवृद्धिं गताः,
यान्ति च, यास्यन्ति च"
श्लोक नं०: ७, अन्वयः—
सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः
शरीरकस्यापि कृते मूढाः पापानि कुर्वते :