नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 188, कुल 309 में से
संदर्भ में पढ़ें( १६० )
नायकः- (सोद्वेगम्) कष्टम् ! किं निमित्तममी सङ्घात-
मृत्यवो जाताः ?
मित्रावसुः- कुमार ! नैवामी सङ्घातमृत्यवः । श्रूयतां यथैतत् ।
पुरा किल स्वपक्षपवनापास्तसमस्तसागरजलस्तरसा
रसातलादुद्धृत्य भुजङ्गमाननुदिनमाहारयति स्म
वैनतेयः ।
नायकः- (सोद्वेगम्) कष्टम् ! अतिदुष्करं करोति । ततस्ततः ।
मित्रावसुः- ततः सकलनागविनाशाशङ्किना ¹ वासुकिना
गरुत्मानभिहितः ।
नायकः- (²सादरम्) किं 'मां प्रथमं भक्षय' इति ?
मित्रावसुः - न हि, न हि ।
नायकः- किमन्यत् ?
मित्रावसुः - इदमुक्तम्- ³'त्वदभिसम्पातसन्त्रासात्सहस्रशः
स्रवन्ति ⁴भुजङ्गमाङ्गनानां गर्भाः, शिशवश्च पञ्चत्व⁵-
मुपयान्ति। एवञ्च सन्ततिविच्छेदादस्माकं तवैव स्वार्थ-
हानिर्भवेत् । यदर्थमभिपतति भवान्नागलोकं तमिह
नागमेकैकमनुदिनं प्रेषयामि ।'
नायकः- कष्टमेवं रक्षिता नागराजेन पन्नगाः ।