नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 186, कुल 309 में से
संदर्भ में पढ़ें( १४८ )
नायकः- (आकर्ण्य) सम्यगुपलक्षितम्-
उद्गर्जज्जलकुञ्जरेन्द्ररभसास्फालानुबन्धोद्धतः,
सर्वाः पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वानिनीः।
उच्चैरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथाऽयं तथा
प्रायः प्रेङ्खदसङ्ख्यशङ्खवलया वेलेयमागच्छति ॥३॥
मित्रावसुः- नन्वियमागर्तैव, पश्य-
कवलितलवङ्गपल्लवकरिमकरोद्गारिसुरभिणा पयसा।
एषा समुद्रवेला रत्नद्युतिरञ्जिता भाति ॥ ४ ॥
तदेतस्माज्जलप्रसरणमार्गादपक्रम्यानेनैव गिरिसानु-
समीपमार्गेण परिक्रमावः।
नायकः- मित्रावसो ! पश्य, पश्य, शरत्समयपाण्डुभिः
पयोदपटलैः प्रावृत्ताः प्रालेयाचलशिखरश्रियमुद्वहन्त्येते
मलयसानवः।
मित्रावसुः- नैवामी मलयसानवः, नागानामस्थिसङ्घाताः
खल्वमी।
श्लोक न० ३, अन्वयः-उन्मज्जत् जलकुञ्जरेन्द्र रभसास्फालानुबन्धोद्धत
सर्वाः पर्वतकन्दरोदरभुवः प्रतिध्वानिनी कुर्वन्
श्रुतिपथोन्माथी अयं ध्वनिः यथा उच्चैः उच्चरति
तथा प्रायः प्रेङ्खदसङ्ख्यशङ्खवलया इयं वेला आगच्छति ॥
श्लोक न० ४, अन्वयः-कवलितलवङ्गपल्लवकरिमकरोद्गारिसुरभिणा पयसा
रत्नद्युतिरञ्जिता एषा समुद्रवेला भाति ॥