नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 184, कुल 309 में से
संदर्भ में पढ़ेंअथ चतुर्थोऽङ्कः।
[ततः प्रविशति कञ्चुकी गृहीतरक्तवस्त्रयुगलः, प्रतीहारश्च]
कञ्चुकी —
अन्तःपुराणां विहितव्यवस्थः¹ पदे पदे ²संस्खलितानि रक्षन् ।
जरातुरः सम्प्रति दण्डनीत्या सर्व्वा नृपस्यानुकरोमि वृत्तिम् ॥१॥
प्रतिहारः-आर्य्य वसुभद्र ! क्वनु खलु भवान् प्रस्थितः ?
कञ्चुकी-आदिष्टोऽस्मि देव्या मित्रावसुजनन्या- ‘कञ्चुकिन् !
दशरात्रं त्वया यावन्मलयवत्या जामातुश्च रक्तवासांसि
नेतव्यानि’ इति । दुहिता च श्वशुरकुले वर्त्तते ।
जीमूतवाहनोऽपि युवराजेन सह समुद्रवेलां द्रष्टुमद्य
गत इति श्रूयते । तन्न जाने किं राजपुत्र्याः सकाशं
गच्छामि अथवा जामातुरिति ।
प्रतीहारः- आर्य्य ! वरं ! राजपुत्र्याः सकाशं गन्तव्यम् । तत्र
हि कदाचिदस्यां वेलायां जामाता स्वयमेवागतो
भविष्यति ।
कञ्चुकी- साधूक्तम् । अथ भवान् पुनः क्व प्रस्थितः ?
श्लोक नं०: १, अन्वयः—
अन्तः पुराणां विहितव्यवस्थः, पदे पदे संस्खलितानि रक्षन् ;
सम्प्रति जरातुरः दण्डनीत्या नृपस्य सर्वां वृत्तिम् अनुकरोमि।