सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 182, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 182

( १५२ )
निद्रामुद्राऽवबन्धव्यतिकरमनिशं¹ पद्मकोशादपास्य-
न्नाशा²पूरैककर्मप्रवणनिजकरप्रीणिताशेषविश्वः ।
³दृष्टः सिद्धैः प्रसक्तस्तुतिमुखरमुखैरस्तमप्येष गच्छ-
न्नेकः श्लाघ्यो विवस्वान् परहितकरणायैव यस्य प्रयासः॥१८॥
[इति निष्क्रान्ताः सर्वे]
इति तृतीयोऽङ्कः ।
श्लोक नं० १८, अन्वयः —
पद्मकोशात् निद्रामुद्रावबन्धव्यतिकरम् अनिशम् अपास्यन् ,
आशापूरैककर्मप्रवणनिजकरप्रीणिताशेषविश्वः, अस्तमपि
गच्छन् प्रसक्तस्तुतिमुखरमुखैः सिद्धैः दृष्टः, एष एकः विवस्वान्
(एव) श्लाघ्यः, यस्य प्रयासः परहितकरणाय एव (भवति) ।