नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 180, कुल 309 में से
संदर्भ में पढ़ें( १५० )
किन्तु—स्वशरीरमपि परार्थे यः खलु दद्यादयाचितः कृपया ।
राज्यस्य कृते¹ स कथं प्राणिवधक्रौर्यमनुमन्ये ? ॥१७॥
अपि च, क्लेशान्² विहाय मम शत्रुबुद्धिरेव नान्यत्र ।
यदि त्वमस्मत्प्रियं कर्तुमीहसे, तदनुकम्प्यतामसौ
राज्यस्य कृते क्लेशदासीकृत³स्तपस्वी ।
मित्रावसुः – (सामर्षं सहासञ्च) कथं नानुकम्पनीय ईदृशो-
ऽस्माकमुपकारी, कृपणश्च⁴ ।
नायकः- (स्वगतम् ) अनिवार्यसंरम्भः प्रत्यग्रकोपाक्षिप्तचेता
न तावदयं शक्यते निवर्तयितुम् । तदेवं तावत् ।
(प्रकाशम् ) मित्रावसो, उत्तिष्ठ, अभ्यन्तरमेव
प्रविशावः। तत्रैव त्वां बोधयिष्यामि । सम्प्रति
परिणतमहः। तथाहि—
श्लोक नं०: १७, अन्वयः
यः खलु अयाचितः (अपि) कृपया परार्थं स्वशरीरम् अपि दद्यात्
सः (अहं) राज्यस्य कृते कथं प्राणिवधक्रौर्यम् अनुमन्ये ?