सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 174, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 174

( १४४ )

नायकः – (नायिकाया मुखं पश्यन् )–
दिनकरकरामृष्टं विभ्रद् द्युतिं परिपाटलां,
दशनकिरणैरुपसर्पद्भिः स्फुटीकृतकेसरम्।
अयि मुखमिदं मुग्धे¹ ! सत्यं समं कमलेन ते,
मधु मधुकरः किन्त्वेतस्मिन् पिबन्न² विभाव्यते ॥१३॥
नायिका-(विहस्य मुखमन्यतो नयति) [नायकः तदेव पठति]
चेटी-(पटाक्षेपेण प्रविश्य, उपसृत्य) एसो क्खु अज्ज मित्तावसु
एष खल्वार्यमित्रावसुः
कज्जेण केण वि कुमारं पेक्खिदुं आअदो।
कार्येण केनापि कुमारं प्रेक्षितुमागतः ।
नायकः-प्रिये ! गच्छ त्वमात्मनो गृहम् । अहमपि मित्रावसुं
दृष्ट्वा त्वरितमागत एव ।
नायिका – (चेट्या सह निष्क्रान्ता)
[ततः प्रविशति मित्रावसुः]


श्लोक नंः १३, अन्वयः—
अयि मुग्धे ! दिनकरकरामृष्टं परिपाटलां द्युतिं विभ्रत् उपसर्पद्भि
दशनकिरणैः स्फुटीकृतकेसरम् इदं ते मुखं सत्यं कमलेन समम् ;
किन्तु एतस्मिन् (मुखकमले) मधु पिबन् (कोऽपि) मधुकरः
न विभाव्यते ॥