नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 166, कुल 309 में से
संदर्भ में पढ़ें( १३४ )
नायकः — वयस्य ! चिरादागतोऽसि ।
विदूषकः —भो वअस्स ! लहुं जेव्व आअदोम्हि । किं उण
भो वयस्य ! लघ्वेवागतोऽस्मि । किं¹ पुन-
विआहमहूसव मिलिदसिद्धविज्जाहराणं आपाणदंसणकोदूहलेण
विवाह महोत्सवमिलितसिद्धविद्याधराणामापानदर्शनकौतूहलेन
परिब्भमंतो एत्तिअं वेलं चिट्ठिदोम्हि । ता तुमं पि दाव
परिभ्रमन्नेतावतीं वेलां स्थितोऽस्मि । तत्त्वमपि ताव-
पेक्ख ।
त्प्रेक्षस्व ।
नायकः—एवं यथाह भवान् । (समन्तादवलोकयन् ) वयस्य !
पश्य, पश्य—
दिग्धाङ्गा ²हरिचन्दनेन, दधतः सन्तानकानां स्रजो
माणिक्याभरणाप्रभाव्यतिकरै³श्चित्रीकृताच्छांशुकाः ।
सार्धं⁴ सिद्धजनैर्मधूनि दयितापीतावशिष्टान्यमी
मिश्रीभूय पिबन्ति चन्दनतरुच्छायासु विद्याधराः ॥६॥
तदेहि वयमपि तां तमालवीथिकां गच्छामः ।
[सर्वे परिक्रामन्ति]
श्लोक नं०: ६, अन्वयः —
हरिचन्दनेन दिग्धाङ्गाः, सन्तानकानां स्रजो दधतः,
माणिक्याभरणप्रभाव्यतिकरैः चित्रीकृताच्छांशुकाः
अमी विद्याधराः सिद्धजनैः सार्धं मिश्रीभूय दयितापीतावशिष्टानि
मधूनि चन्दनतरुच्छायासु पिबन्ति ।