नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 160, कुल 309 में से
संदर्भ में पढ़ें( १२८ )
नायकः—(मलयवतीमवलोक्य सहर्षम् )
दृष्टा दृष्टिमधो ददाति, कुरुते नालापमाभाषिता,
शय्यायां परिवृत्य तिष्ठति, बलादालिङ्गिता वेपते।
निर्यान्तीषु सखीषु ^1वासभवनान्निर्गन्तुमेवेहते ।
जातो ^2वामतयैव मेऽद्य सुतरां प्रीतयै नवोढा प्रिया ॥४॥
(मलयवतीं पश्यन्)
हुङ्कारं ददता मया प्रतिवचो यन्मौनमासेवितं,
यद्दावानल दीप्तिभिस्तनुरियं चन्द्रातपैस्तापिता
ध्यातं यत्सुबहून्यनन्यमनसा नक्तन्दिनानि प्रिये !
तस्यैतत् तपसः फलं मुखमिदं पश्यामि यत्तेऽधुना ॥ ५ ॥
नायिका—(अपवार्य) हञ्जे चतुरिए ! ण केवलं दंसणीओ,
हञ्जे चतुरिके ! न केवलं दर्शनीयः,
श्लोक नं०: ४, अन्वयः—
दृष्टा दृष्टिमधो ददाति, आभाषिता आलापं न कुरुते;
शय्यायां परिवृत्य तिष्ठति, बलात् आलिङ्गिता वेपते ।
वासभवनात् सखीषु निर्यान्तीषु निर्गन्तुम् इव ईहते,
वामतया एव अद्य मे नवोढा प्रिया सुतरां प्रीत्यै जाता ॥
श्लोक नं०: ५ अन्वयः—
यत् प्रतिवचः हुङ्कारं ददता मया मौनम् आसेवितम् ;
यत् दावानलदीप्तिभिः चन्द्रातपैः इयं तनुः तापिता;
यत् सुवहूनि नक्तन्दिनानि अनन्यमनसा (मया) ध्यातम्;
(हे) प्रिये ! तस्य तपसः एतत् फलं यत् ते इदं मुखं अधुना पश्यामि ॥-