सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 158, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 158

( १२६ )
विटः — अहम्पि णं पसादेमि । [पादयोर्निपत्य] मरिसेदु
अहम्प्येनं प्रसाद्यामि । मर्षयतु,
मरिसेदु अज्जो, जं मए मदपरवसेण अवरद्धं, जेण अहं
मर्षयतु, आर्यः, यन्मया मदपरवशेनापराद्धम् ; येनाहं
णोमालिए सह आवाणअं गमिस्सं ।
नवमालिकया सहापानकं गमिष्यामि ।
विदूषकः—मरिसीदं मए, गच्छ तुम्हे, अहंपि पिअवअस्सं
मर्षितं मया, गच्छतं युवाम् । अहमपि प्रियवयस्यं
पेक्खामि ।
प्रेक्षे । [निष्क्रान्तो विटश्चेट्या सह चेटश्च]
विदूषकः— अदिक्कंतो बम्हणस्स अकालमित्तू । ता जाव
अतिक्रान्तो ब्राह्मणस्याकालमृत्युः । तद्याव-
अहंपि मत्तवालअस्सङ्गदूसिदो इध दिग्धिकाए ण्हाइस्सं ।
दहमपि मत्तवालकसङ्गदूषित इह दीर्घिकायां स्नास्यामि ।
[तथा करोति । नेपथ्याभिमुखमवलोक्य]—एसो पिअवअस्सोवि
एष प्रियवयस्योऽपि
रुक्किणीं विअ हरी मलयवदीं अवलम्बिअ इदो जेव्व
रुक्मिणीमिव हरिर्मलयवतीमवलम्ब्य इत एव-
आगच्छदि । ता जाव पासपरिवित्ती होमि ।
आगच्छति । तद्यावत्पार्श्ववर्ती भवामि ।
[ततः प्रविशति गृहीतवरनेपथ्यो नायको मलयवती विभवतश्च परिवारः]