नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 154, कुल 309 में से
संदर्भ में पढ़ें( १२२ )
चेटी- (विहस्योपविशति)
विटः- (चषक्रमादाय) अरे चेडा सुमट्टिदं क्खु ए चसअं
अरे चेट ! सुमृष्टं खल्वेतं चषकं
करेहि अच्छसुराए ।
कुरु अच्छसुरया ।
चेटः- (नाट्येन चषकभरणं करोति)
विटः- (स्वशिरः शेखरगत् पुष्पाणि गृहीत्वा चषके विन्यस्य
जानुभ्यां स्थित्वा नवमालिकाया उपनयति)
णोमालिए! चक्खिअ देहि एदं एदस्स ।
नवमालिके ! आस्वाद्य देह्येतदेतस्य !
चेटी- (सस्तिमम्) जं सेहरओ भणादि ।
यच्छेखरको भणति ।
[ तथा कृत्वा विटस्यार्पयति ]
विटः - ( विदूषकस्य चषकमर्पयति ) एदं णोमालिआ-
एतन्नवमालिका-
मुहसंसग्गमविसेसवामिअरसं सेहरआअण्णेण
मुखसंसर्गसविशेषवासितरसं शेखरकादन्येन
केणवि अणासादिदपुरुव्वं ता पिवेहि एदं । किं
केनाप्यनास्वादितपूर्वं, तत् पिवैतत् । किं
दे अवरं सम्माणं करिस्सं ?
तेऽपरं सम्मानं करिष्यामि ?
विदूषकः- (सवैलक्ष्यस्मितं¹ कृत्वा ) सेहरअ ! बम्हणो क्खु अहं ।
शेखरक ! ब्राह्मणः खल्वहम्² ।