नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 146, कुल 309 में से
संदर्भ में पढ़ें( ११४ )
चेटी-आणत्तम्हि भट्ठिदारिए जणणीए-हञ्जे णोमालिए !
आज्ञप्तास्मि भर्तृदारिकाया जनन्या - हञ्जे नवमालिके !
कुसुमोअरुज्जाणं गदुअ उज्जाणपालिअं पल्लविअं भणाहि -
कुसुमाकरोद्यानं गत्वा उद्यानपालिकां पल्लविकां भण-
“अज्ज सविसेसं तमालवीहिअं सजीकरेहि । मलयवदी-
“अद्य सविशेषं तमालवीथिकां२ सजीकुरु । मलयवती-
सहिदेण जामादुएण तत्थ गन्दव्वं' त्ति । आणत्ता च मए
सहितेन जामात्रा तत्र गन्तव्यमिति । आज्ञप्ता च मया
पल्लविआ । ता जाव रअणीविरहवड्ढिदोत्कण्ठं
पल्लविका । तद्यावद्रजनीविरहवर्धितोत्कण्ठं
पिअवल्लहं सेहरअं अण्णेसामि । (दृष्ट्वा) एसो सेहरओ !
प्रियवल्लभं शेखरकमन्विष्यामि । एष शेखरकः !
(सरोषम्) कहं अण्णं कम्पि इत्थिअं पसादेदि ! ता इह
कथमन्यां कामपि स्त्रियं प्रसादयति ! तदिह
ट्ठिदा ज्जेव्व जाणामि का एसेत्ति ।
स्थितैव जानामि कैषेति ।
विटः-(सहर्षम्)-
हरिहरपिदामहाणं पि गव्विदो जो ण जाणइ णमिदुं
हरिहरपितामहानामपि गर्वितो यो न जानाति नन्तुम् ।
सो सेहरओ चलणेसु तुज्ज णोमालिए ! पडइ ॥३॥
स शेखरकश्चरणयोस्तव नवमालिके ! पतति ॥
श्लोक नंः ३, अन्वयः---
यः गर्वितः हरिहरपितामहानामपि नन्तुं न जानाति
स शेखरकः नवमालिके ! तव चरणयोः पतति ।