सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 144, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 144

( ११२ )
दासोए पुत्ता महुअरा किं करिस्संति त्ति ।
दास्याः पुत्रा मधुकराः किं करिष्यन्तीति ।
[तथा करोति]
विटः- निरूप्य सहर्षम्) अरे चेडा ! (अङ्गुल्या निर्दिश्य सहासम्)
अरे चेट !
एसा क्खु णोमालिआ मं पेक्खिअ अहं चिरस्स आअदो
एषा खलु नवमालिका मां प्रेक्ष्य 'अहं चिरस्यागत'
त्ति कुविदा अवगुण्ठनं कडुअ अण्णदो गच्छदि।
इति कुपिताऽवगुण्ठनं कृत्वाऽन्यतो गच्छति ।
ता कण्ठे गेण्हिअ पसादेमि णं ।
तत्कण्ठे गृहीत्वा प्रसादयाम्येनाम् ।
[सहसोपसृत्य कण्ठे गृहीत्वा मुखे ताम्बूलं दातुमिच्छति]
विदूषकः- (मद्यगन्धं सूचयन्नासिकां गृहीत्वा पराङ्मुखः
स्थित्वा) कहं एक्क. णां महुअराणं सकाआदो परिब्भट्ठो
कथनेकेषां ¹मधुकराणां सकाशात्परिभ्रष्ट
दाणिं अण्णस्स दुट्ठमहुअरस मुहे पडिदोम्हि ।
इदानीमन्यस्य दुष्टमधुकरस्य मुखे पतितोऽस्मि ।
विटः- कहं कोवेण परम्मुही भूदा ?
कथं कोपेन पराङ्मुखी भूता ?
(प्रणामं कुर्वन्, विदूषकस्य चरणमात्मनः शिरसि कृत्वा)
पसीद णोमालिए ! पसीद ।
प्रसीद नवमालिके ! प्रसीद ।