नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 136, कुल 309 में से
संदर्भ में पढ़ें( १०२ )
चेटी—(उपसृत्य, सहर्षम्) भट्टिदारिए ! दिट्ठिआ वड्ढसि ।
भर्तृदारिके ! दिष्ट्या वर्धसे ।
पडिच्छिदा क्खु तुमं भट्टिणो जीमूदवाहणस्स गुरुहिं ।
प्रतीष्टा¹ खलु त्वं भर्तुर्जीमूतवाहनस्य गुरुभिः।
विदूषकः— (नृत्यन्) ही ही भो! सम्पुण्णा मणोरहा
ही ही भोः ! सम्पूर्णा मनोरथाः
पिअवअस्स । अहवा णहि णहि, भोदीए मलयवदीए ।
प्रियवयस्य । अथवा नहि नहि , भवत्या मलयवत्याः ।
अहवा ण एदाणं। (भोजनमभिनयन् ) मम ज्जेव एक्कस्स बह्मणस्स ।
अथवा न एतयोः ! ममैव एकस्य ब्राह्मणस्य ।
चेटी—(नायिकामुद्दिश्य) आणत्तम्हि जुवराअमित्तावसुणा
आज्ञप्तास्मि युवराजमित्रावसुना
जहा—अज्ज ज्जेव मलयवदीए विवाहो । ता लहुं तं
यथा—अद्यैव मलयवत्याः विवाहः। तल्लघु तां
गेण्हिअ आगच्छ त्ति । ता एहि गच्छुम्ह ।
गृहीत्वागच्छ' इति । तदेहि गच्छावः ।
विदूषकः—आः गदा क्खु तुमं दासीए धीए ! एदं गेण्हिअ ।
आः गता खलु त्वं, ²दास्याःपुत्रि ! इमां गृहीत्वा ।
पिअवअस्सेण किं इध ज्जेव अवत्थिदव्वं ?
प्रियवयस्येन किमिहैवावस्थातव्यम् ?
चेटी—हदास ! मा तुवर । तुम्हाणं पि ण्हवणाअं आगदं जेव ।
हताश³ ! मा त्वरस्व। युष्माकमपि ⁴स्नपनकमागतमेव ।