सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 130, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 130

( ६६ )
(निरूध्य सरोषं हस्तमाक्षेप्तुमिच्छति)—
मुञ्च मुञ्च मे अग्गहत्थं, को तुमं णिवारेदुं ? मरणे वि किं
मुञ्च मुञ्च मे ऽग्रहस्तम् । कस्त्वं निवारयितुम् ? मरणेऽपि किं
तुमं जेव्व-अब्भट्ठणीओ ।
त्वमेवाभ्यर्थनीयः ?
नायकः — नाहं मुञ्चामि ।
कण्ठे ¹हारलतायोग्ये येन पाशस्त्वयाऽर्पितः ।
गृहीतः सापराधोऽयं, स कथं मुच्यते करः ? ॥ १२ ॥
विदूषकः-भोदि ! किं उण से इमस्स मरणव्ववसायस्स कारणं ?
भवति ! किं पुनरस्या अस्य मरणव्यवसायस्य² कारणम् ?
चेटी- (साकूतं³) णं एसो एव्व दे पिअवअस्सो ।
नन्वेष एव ते प्रियवयस्यः ।
नायकः-कथमहमेवास्या मरणकारणम् ? न खल्ववगच्छामि ।
विदूषकः- भोदि ! कहं वित्र ।
भवति ! कथमिव ।
चेटी - (साकूतम्) जा सा पिअवअस्सेण दे कावि हिअववल्लहा
या सा प्रियवयस्येन ते काऽपि हृदयवल्लभा
सिलाअले आलिहिदा ताए पक्खवादिणा एदेण
शिलातले आलिखिता तस्याः ⁴पक्षपातिनैतेन
श्लोक नंः १२, अन्वयः —
येन (करेण) त्वया हारलतायोग्ये कण्ठे पाशः अर्पितः
स सापराधः करः अयं गृहीतः, (स) कथं मुच्यते ?