सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 124, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 124

( ६० )
[ना]यकः--मित्रावसो ! क इह नेच्छेद भवद्भिः सह श्लाघ्य-
मीदृशं सम्बन्धम् ? किन्तु न शक्यते चित्तमन्यतः
प्रवृत्तमन्यतो प्रवर्त्तयितुम् । अतो नाहमेनां प्रतिग्रही-
तुमुत्सहे ।
नायिका - (मूर्च्छां नाटयति)
चेटी - समस्ससदु समस्ससदु भट्टिदारिआ !
समाश्वसितु समाश्वसितु भर्तृदारिका !
विदूषकः-भो ! पराधीणो क्खु एसो, किं एदिणा अब्भत्थिदेण ?
भो ! पराधीनः खल्वेषः , किमनेनाभ्यर्थितेन ?
ता गुरुअणं से गदुअ अब्भड्ढेहि ।
तद्गुरुजनमस्य गत्वाभ्यर्थय ।
मित्रावसुः - (आत्मगतम् ) साधूक्तं, नायं गुरुजनवचन-
मतिक्रामति । अस्य गुरुरप्यस्मिन्नेव गौर्याश्रमे प्रति-
वसति । तद्यावद्गत्वाऽस्य पित्रा मलयवतीं प्रति-
ग्राहयामि ।
नायिका - (समाश्वसिति)
मित्रावसुः - (प्रकाशम् ) एवं निवेदितात्मनोऽस्मान् प्रत्या-
चक्षाणः कुमार एव बहुतरं जानाति ।
नायिका - (सरोषं विहस्य)
कहं पच्चाक्खाणलहू मित्तावसू पुणो वि मन्तेदि ?
कथं ^1प्रत्याख्यानलघुर्मित्रावसुः पुनरपि मन्त्रयते ?