सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 122, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 122

( ८८ )
नायिका-- सुणिस्सं दाव, किं तादेण संदिट्ठं त्ति ।
श्रोष्यामि तावत्, किं तातेन सन्दिष्टमिति ।
मित्रावसुः-इदमाह तातः-अस्ति मे मलयवती नाम कन्या
जीवितमिवास्य सर्वस्यैव सिद्धराजान्वयस्य । सा मया
तुभ्यं प्रतिपाद्यते । प्रतिगृह्यताम्'' इति ।
चेटी- (विहस्य) - भट्टिदारिए ! किं ण कुप्पसि दाणीं ?
भर्तृदारिके ! किं न कुप्यसीदानीम् ?
नायिका - (सस्मितं सलज्जं चाधोमुखी स्थित्वा) हज्जे !
हञ्जे !
मा हस । किं विसुमरिदं दे एदस्स अण्णहिअअत्तणं ?
मा हस । किं विस्मृतं त एतस्यान्यहृदयत्वम् ?
नायकः- (अपवार्य) वयस्य सङ्कटे पतिताः स्मः ।
विदूषकः- (अपवार्य) भो वअस्स ! जाणामि ण तं वज्जिअ
भो वयस्य ! जानामि न तां वर्जयित्वा-
अण्णहिं चित्तं दे अहिरमदि, ता जधा तथा जं किम्पि
ऽन्यत्र, चित्तं तेऽभिरमते । तयथा तथा यत्किमपि
भणिअ विसज्जीअदु एसो ।
भणित्वा विसृज्यतामेषः ।
नायिका- (सरोपमात्मगतम्) हदास ! को वो एदं न जाणादि ?
हताश¹ ! को चैतन्न जानाति ?