सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 116, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 116

( ८२ )
नायकः- वयस्य ! साधु कृतम् (गृहीत्वा शिलायामलिखन् सरोमाञ्चम्)-
सखे ! पश्य —
^1 अक्लिष्टविभ्रमशोभाधरस्य नयनोत्सवस्य ^2 शशिन इव ।
दयितामुखस्य सुखयति रेखाऽपि ^3 प्रथमदृष्टेयम् ॥ ८ ॥
[आलिखति]
विदूषकः- (सकौतुकं निर्वर्ण्य) भो वयस्स ! अपच्चक्खे वि
भो वयस्य ! अप्रत्यक्षेऽपि
णाम रूअं लिहिअदि । अहो अच्छरिअं !
नाम रूपं लिख्यते । अहो आश्चर्यम् !
नायकः- (सस्मितम् ) वयस्य !
प्रिया सन्निहितैवेयं सङ्कल्पस्थापिता पुरः ।
दृष्ट्वा दृष्ट्वा लिखाम्येनां यदि तत्कोऽत्र विस्मयः ॥६॥
नायिका-(सास्रम् ) चदुरिए! जाणिदं क्खु कहावसाणं । ता एहि,
चतुरिके ! ज्ञातं खलु कथावसानम् । तदेहि ,
मित्तावसुं पेक्खह्म ।
मित्रावसुं प्रेक्षावहे ।
श्लोक नं० ८, अन्वयः -
अक्लिष्टविभ्रमशोभाधरस्य नयनोत्सवस्य शशिनः प्रथमदृष्टा (रेखा)
इव दयितामुखस्य इयं रेखाऽपि (मां) सुखयति ।
श्लोक नं० ६, अन्वयः -
सङ्कल्पस्थापिता इयं प्रिया पुरः सन्निहिता इव ।
यदि एनां दृष्ट्वा दृष्ट्वा लिखामि, तत् अत्र को विस्मयः ?