नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 110, कुल 309 में से
संदर्भ में पढ़ें( ७६ )
भट्टिदारिए ! जाणामि सिविणआलावो विअ,
भर्तृदारिके ! जानामि स्वप्नालाप इव,
तो अवहिदा दाव सुणाम्ह ।
तदवहिते तावत् शृणुवः । [उभे आकर्णयन्तः]
विदूषकः— (हस्तेन चालयन्)
भो वअस्स ! णं भणामि, एसा सा चंदमणिसिलेत्ति ।
भो वयस्य ! ननु भणामि, एषा सा चन्द्रमणिशिलेति ।
नायकः— (सवाष्पं निःश्वस्य) सम्यगुपलक्षितम् । (हस्तेन निर्दिश्य)
शशिमणिशिला सेयं यस्यां विपाण्डुरमाननं
करकिसलये कृत्वा वामे घनश्वसितोद्गमा ।
चिरयति मयि व्यक्ताकूता मनाक्स्फुरितैर्भ्रुवो-
र्विरमितमनोमन्युर्दृष्टा मया रुदती प्रिया ॥६॥
ततस्तस्यामेव चन्द्रमणिशिलायामुपविशावः ।
[उभावुपविशतः]
नायिका. (विचिन्त्य) का उण एसा हुविस्सदि !
का पुनरेषा भविष्यति ?
चेटी- भट्टिदारिए ! जधा अम्हे ओवारिदा दाव एदं पेक्खम्ह,
भर्तृदारिके ! यथावामपवारिते तावदेनं प्रेक्षावहे,
श्लोक नं० ६, अन्वयः—
इयं सा शशिमणिशिला यस्यां वामे करकिसलये विपाण्डुरम् आननं कृत्वा,
घनश्वसितोद्गमा, मयि चिरायति भ्रुवो मनाक् स्फुरितैः व्यक्ताकूता,
विरमितमनोमन्युः रुदती प्रिया मया दृष्टा ॥