नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 108, कुल 309 में से
संदर्भ में पढ़ें( ७४ )
चेटी—(दृष्ट्वा) भट्टिदारिए ! दिहिट्ठआ वड्ढसि । सो एव्व
भर्तृदारिके ! दिष्ट्या वर्धसे । स एव
णं दे हिअअवल्लहो जणो ।
ननु ते हृदयवल्लभो जनः ।
नायिका—[दृष्ट्वा सहर्षं ससाध्वसञ्च] हञ्जे ! एदं
हञ्जे ! एवं
पेक्खिअ अदिसाध्वसेण ण सक्कुणोमि इह एव्व आसणे
प्रेक्ष्यातिसाध्वसेन न शक्नोमीहैवासने
चिट्ठिदुं, कदावि एसो मं पेक्खदि । ता एहि अण्णदो
स्थातुं, कदापि एष मां प्रेक्षते । तदेह्यन्यतो
गच्छम्ह । (सोत्कण्ठं पदं दत्वा) हञ्जे ! वेवंति मे ऊरुओ ।
गच्छावः । हञ्जे ! वेपेते मे ऊरू ।
चेटी—(विहस्य) अइ काअरे ! इह ठिदं तुमं को पेक्खदि ?
अयि कातरे ! इह स्थितां त्वां कः प्रेक्षते ?
णं विसुमरिदो दे अअं रत्तासोअपादवो, ता इध एव्व
ननु विस्मृतस्तेऽयं रक्ताशोकपादपः ? तदिहै-
उबविसिअ चिट्ठम्ह ।
वोपविश्य तिष्ठावः । [तथा कुरुतः]
विदूषकः—(निरूप्य) भो वअस्स ! एसा सा चन्दमणिसिला
भो वयस्य ! एषा सा चन्द्रमणिशिला ।
नायकः—(सवाष्पं निःश्वसिति)