नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 106, कुल 309 में से
संदर्भ में पढ़ें( ७२ )
चन्द्रकान्तमणिशिलायामुपविष्टा प्रणयकुपिता
किमपि मामुपालभमानेव रुदती मया दृष्टा । तदिच्छामि
स्वमानुभूतदयितासमागम रम्येऽस्मिंश्चन्दनलतागृहे
दिवसशेषमतिवाहयितुम् । तदेहि गच्छावः ।
[परिक्रामतः]
चेटी — (कर्णं दत्वा ससम्भ्रमम् )
भट्टिदारिए ! पदसद्दो वित्र सुणीअदि ।
भर्तृदारिके ! पदशब्द इव श्रूयते ।
नायिका- (ससम्भ्रममात्मानं पश्यन्ती) हज्जे ! मा ईरिसं आआरं
हञ्जे ! मेदृशमाकारं
पेक्खिअ कोवि मे हिअअं तुलीअदु । ता उट्ठेहि, इमिणा
प्रेक्ष्य कोऽपि मे हृदयं तुलयतु¹ । तदुत्तिष्ठ, अनेन
रत्तासोअपादवेण अंतरिदा पेक्खम्ह दाव को एसो त्ति ।
रक्ताशोकपादपेनान्तरिते प्रेक्षावहे तावत् 'क एष' इति ।
[तथा कुरुतः]
विदूषकः — एदं चंदणलदाघरअं । ता एहि पविसम्ह ।
इदं चन्दनलतागृहम् । तदेहि प्रविशावः ।
[नाट्येन प्रविशतः]
नायकः- चन्दनलतागृहमिदं सचन्द्रमणिशिलमपि प्रियं न मम
चंद्राननया रहितं चंद्रिकया ²मुखमिव निशायाः ॥५॥
श्लोक नं० ५, अन्वयः-
चन्द्राननया रहितं सचन्द्रमणिशिलमपि इदं चन्दनलतागृहं
चन्द्रिकया (रहितं) निशायाः मुखमिव मम प्रियं न ॥