नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 104, कुल 309 में से
संदर्भ में पढ़ें(७०)
(विचिन्त्य)
अथवामृषा नाभिहितं, वयस्यात्रेय ! नन्वधीर एवास्मि ।-
स्त्रीहृदयेन न सोढाः क्षिप्ताः कुसुमेषवोऽप्यनङ्गेन$^1$ ।
येनाद्यैव पुरस्तव वदामि 'धीर' इति स कथमहम् ॥४॥
विदूषकः - (आत्मगतम्)
एव्वमधीरत्तणं पडिवज्जंतेण आचक्खिदो महन्तो अणेण
एवमधीरत्वं प्रतिपद्यमानेनाऽऽख्यातो महानेन
हिअअस्स आवेगो। ता जाव कहिं एव्व एदं अवक्खिवामि ।
हृदयस्यावेगः$^3$ । तद्यावत्कुत्रैवेनमपक्षिपानि ।
(प्रकाशम् )
भो वअस्स ! कीस उण अज्ज तुमं लहु एव्व गुरुअणं
भो वयस्य ! कथं पुनरद्य त्वं $^4$लघ्वेव गुरुजनं
सुस्सूसिअ इह आगदो ?
शुश्रूषयित्वेहाऽऽगतः ?
नायकः - वयस्य ! स्थाने खल्वेष प्रश्नः । कस्य वा-
ऽन्यस्यैतत्कथनीयम् ? अद्य खलु स्वप्ने जानामि-
सैव प्रियतमा (अङ्गुल्या निर्दिशन्) अत्र चन्दनलतागृहे
श्लोक नं० ४, अन्वयः-
स्त्रीहृदयेन येन (मया) अनङ्गेन क्षिप्ताः कुसुमषवः अपि न सोढाः
सः अहम् अद्य एव कथं तव पुरः धीरः इति वदामि ॥